वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣भि꣡ त्रि꣢पृ꣣ष्ठं꣡ वृष꣢꣯णं वयो꣣धा꣡म꣢ङ्गो꣣षि꣡ण꣢मवावशन्त꣣ वा꣡णीः꣢ । व꣢ना꣣ व꣡सा꣢नो꣣ व꣡रु꣢णो꣣ न꣢꣫ सिन्धु꣣र्वि꣡ र꣢त्न꣣धा꣡ द꣢यते꣣ वा꣡र्या꣢णि ॥५२८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अभि त्रिपृष्ठं वृषणं वयोधामङ्गोषिणमवावशन्त वाणीः । वना वसानो वरुणो न सिन्धुर्वि रत्नधा दयते वार्याणि ॥५२८॥

मन्त्र उच्चारण
पद पाठ

अ꣣भि꣢ । त्रि꣣पृष्ठ꣢म् । त्रि꣣ । पृष्ठ꣢म् । वृ꣡ष꣢꣯णम् । व꣣योधा꣢म् । व꣣यः । धा꣢म् । अ꣣ङ्गोषि꣡ण꣢म् । अ꣣वावशन्त । वा꣡णीः꣢꣯ । व꣡ना꣢꣯ । व꣡सा꣢꣯नः । व꣡रु꣢꣯णः । न । सि꣡न्धुः꣢꣯ । वि । र꣣त्नधाः꣢ । र꣣त्न । धाः꣢ । द꣣यते । वा꣡र्या꣢꣯णि ॥५२८॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 528 | (कौथोम) 6 » 1 » 4 » 6 | (रानायाणीय) 5 » 6 » 6


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में कैसा परमात्मा क्या करता है, इसका वर्णन है।

पदार्थान्वयभाषाः -

(त्रिपृष्ठम्) ऋग्-यजुः-साम रूप, पृथिवी-अन्तरिक्ष-द्यौ रूप, अग्नि-वायु-आदित्य रूप, सत्त्व-रजस्-तमस् रूप और मन-प्राण-आत्मा रूप तीन पृष्ठोंवाले, (वृषणम्) सुख आदि के वर्षक, (वयोधाम्) आयु प्रदान करनेवाले (अङ्गोषिणम्) अङ्ग-अङ्ग में निवास करनेवाले अथवा स्तुति-योग्य परमात्मा का (वाणीः) वेदवाणियाँ (अभि अवावशन्त) गान करती हैं। (वरुणः न) सूर्य के समान (वना) तेज की किरणों को (वसानः) धारण करता हुआ वह परमात्मा (रत्नधाः) रत्नप्रदाता (सिन्धुः) समुद्र के समान (वार्याणि) वरणीय भौतिक एवं आध्यात्मिक रत्नों को (वि दयते) विशेष रूप से प्रदान करता है ॥६॥ इस मन्त्र में उपमालङ्कार है ॥६॥

भावार्थभाषाः -

सूर्य के समान तेजों का और समुद्र के समान रत्नों का भण्डार परमेश्वर तेजों तथा रत्नों को प्रदान कर सबको समृद्ध करता है ॥६॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ कीदृशः परमात्मा किं करोतीत्याह।

पदार्थान्वयभाषाः -

(त्रिपृष्ठम्२) त्रीणि ऋग्यजुःसामरूपाणि, पृथिव्यन्तरिक्षद्युरूपाणि, अग्निवाय्वादित्यरूपाणि, सत्त्वरजस्तमोरूपाणि, मनःप्राणात्मरूपाणि वा पृष्ठानि यस्य तम्, (वृषणम्) सुखादीनां वर्षकम् (वयोधाम्३) आयुष्प्रदातारम्, (अङ्गोषिणम्४) अङ्गे अङ्गे निवसन्तं स्तुत्यं वा परमात्मरूपं सोमम्। अङ्गपूर्ववसधातोरिनिप्रत्यये सम्प्रसारणे रूपम्। यद्वा आङ्गूषः स्तोमः तद्वन्तं स्तुत्यमित्यर्थः। ‘आङ्गूषः स्तोम आघोषः’ इति यास्कः। निरु० ५।११। (वाणीः) वेदवाण्यः। जसि छान्दसः पूर्वसवर्णदीर्घः। (अभि अवावशन्त५) भृशं गायन्ति। वाशृ शब्दे इति धातोः यङ्लुकि छान्दसं रूपम्। (वरुणः न) सूर्यः इव (वना) तेजोरश्मीन् वनमिति रश्मिनाम। निघं० १।५। (वसानः) धारयन् स परमात्मा, (रत्नधाः) रत्नप्रदाता (सिन्धुः) समुद्रः इव इति लुप्तोपमम् (वार्याणि) वरणीयानि रत्नानि भौतिकाध्यात्मिकानि (विदयते) विशेषेण ददाति। दय दानगतिरक्षणहिंसादानेषु भ्वादिः ॥६॥ अत्रोपमालङ्कारः ॥६॥

भावार्थभाषाः -

सूर्य इव समुद्र इव च तेजसां रत्नानां च निधिः परमेश्वरस्तेजांसि रत्नानि च प्रदाय सर्वान् सुसमृद्धान् करोति ॥६॥

टिप्पणी: १. ऋ० ९।९०।२ ‘मङ्गोषिण’ ‘सिन्धुर्’ इत्यत्र क्रमेण ‘माङ्गूषाणा’ ‘सिन्धून्’ इति पाठः। साम० १४०८। २. त्रिपृष्ठम् त्रीणि पृष्ठानि सवनानि लोकाः देवाः वेदा वा—इति वि०। त्रिपृष्ठं त्रिस्थानम्, सवनानि त्रीणि द्रोणकलशपूतभृदाहवनीयाख्यानि वा स्थानानि—इति भ०। ३. वयोधाम् अन्नानां दातारं यशसां वा—इति वि०। ४. अङ्गोषिणं मतिसमूहम्—इति वि०। आघोषिणम्—इति भ०। आघोषन्तं सोमम्—इति सा०। ५. अवावशन्त कामयन्ते शब्दायन्ते वा—इति सा०।